|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.303. अध्यायः 303
Mahabharata - Vana Parva - Chapter Topics
कर्णएन सूर्यंप्रति सानुनयं शक्राय कवचकुण्डलदानेऽभ्यनुज्ञाप्रार्थना ॥ 1 ॥ सूर्येण कर्णंप्रति शक्राच्छक्तिग्रहणचोदनापूर्वकं कुण्डलादिदानाभ्यनुज्ञानम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
कर्ण उवाच। 3-303-0x(2826)(27612)
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते।
तथा परमतिग्मांशो नास्त्यदेयं कथंचन ॥ 3-303-1(27613)
न मे दारा न मेपुत्रा न चात्मा सुहृदो न च।
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम ॥ 3-303-2(27614)
इष्टानां च महात्मानो भक्तानां च न संशयः।
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर ॥ 3-303-3(27615)
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि।
जानीत इतिवै कृत्वा भगवानाह मद्धितम् ॥ 3-303-4(27616)
भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः।
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि ॥ 3-303-5(27617)
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्।
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम् ॥ 3-303-6(27618)
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा।
यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति ॥ 3-303-7(27619)
व्येतु संतापजं दुःखं तव भास्कर मानसम्।
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम् ॥ 3-303-8(27620)
तवापि विदितं देव ममाप्यस्त्रबलं महत्।
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः ॥ 3-303-9(27621)
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम।
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः ॥ 3-303-10(27622)
सूर्य उवाच। 3-303-11x(2827)
यदि तात ददास्येते वज्रिणे कुण्डले शुभे।
त्वमप्येनमथो ब्रूया विजयार्थं महाबल ॥ 3-303-11(27623)
नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः।
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः ॥ 3-303-12(27624)
अर्जुनन विनाशं हि तव दानवसूदनः।
प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति ॥ 3-303-13(27625)
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः।
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम् ॥ 3-303-14(27626)
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्।
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम् ॥ 3-303-15(27627)
इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले।
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून् ॥ 3-303-16(27628)
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः।
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः ॥ 3-303-17(27629)
वैशम्पायन उवाच। 3-300-18x(2828)
एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत।
`कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव ॥ 3-303-18(27630)
प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत।
चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर ॥ 3-303-19(27631)
यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप।
शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह ॥ 3-303-20(27632)
स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ।
ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत् ॥ 3-303-21(27633)
विधिना राजशार्दूल मुहूर्तमजपत्तदा'।
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत् ॥ 3-303-22(27634)
यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि।
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा ॥ 3-303-23(27635)
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः।
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव ॥ 3-303-24(27636)
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा।
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत् ॥ 3-303-25(27637)
इति श्रीमन्महाभारते अरण्यपर्वणि कुण्डलाहरणपर्वणि त्र्यधिकत्रिशततमोऽध्यायः ॥ 303 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-303-23 अस्मै सूर्याय। वृषः क्रणः ॥ 3-303-24 स्वर्भानुसूदनः राहुदमनः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|